पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८ अलंङ्कारसङ्ग्रहः उपमा नाम तस्योक्तिरिववद्वादिभिर्यथा । “उन्मुक्तकञ्चुकतयेयमुदारकान्तिः शखीव शम्बररिपोरपनीतकोशा । रक्तावकुण्टनपटोरचितापिधाना सन्ध्याम्बुवाहकलितेव शशाङ्करेखा ॥' बहवस्तप्रकाराः स्युस्तेषामन्यत्र विस्तरः ॥ २१ ॥ एकत्वं रूपणं यत्स्यादुपमानोपमेययोः । रूपकं नाम तञ्चपि बहुभेदयुतं यथा ॥ २२ ॥ "मन्दस्मितं मधुरमञ्जु मुखं सरोजं मन्दारदाममहितं ननु बाहुयुग्मम् । पुण्याहपूर्णकलशौ पृथुलौ स्तनौ ते पुण्यायितानि हि कटाक्षनिरीक्षणानि ॥ " सुबन्तं वा तिङन्तं वा पदमेकत्र सङ्गत्तम् । सर्वोपकारकं स्याञ्चेत्तदाहुदींपकं यथा ॥ २३ ॥ "अक्षं विक्षिपति ध्वजं विभजते मृद्गाति नद्धं गुणं चक्रे चूर्णयति क्षिणोति तुरगान् रक्ष:पतेः पक्षिराट् । रुन्धे गर्जति तर्जयत्यभिभवत्यालम्बते ताडय- त्याकर्षत्यपकर्षति प्रचलयत्यञ्चत्युदञ्चत्यपि ॥" " सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनु ॥ "

1. तलाxxxज्ञाः