पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः परिच्छेदः रीतिरात्मात्र काव्यस्य कथ्यते सा चतुर्विधा । वैदर्भीं च तथा गौडी पाञ्चाली लटिकेति च ॥ १ ॥ क्ष्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारवमोज:कान्तिसमाधयः ॥ २ ॥ अल्पप्राणाक्षरैः क्ष्लेषः पदैरशिथिलैर्मतः। पदैः प्रसन्नो यत्रार्थः प्रसादोऽसौ प्रतीयते ॥ ३ ॥ प्रक्रान्तबन्धो यत्र स्यात्समः स्यात्समता मता । बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः ॥ ४ ॥ सरसौ यत्र शब्दार्थौ माधुर्य श्रुतिपोदकृत्। अनिष्ठरैः श्रुतिसुखैर्वणै: स्यात्सुकुमारता ॥ ५ ॥ अर्थव्यक्तिरनेयोऽर्थः साक्षाद्यवाभिधीयते । शब्दार्थयोर्गुणोत्कर्षों यत्र सा स्यादुदारता ॥ ६ ॥ वाक्ये समासबाहुल्यं हृद्यभोजोऽभिधीयते । कमनीयो लौकिोऽपि यत्रार्थः कान्तिरुच्यते ॥ ७ ॥ समाधिरन्यधर्माणामध्यासादर्थगौरवम् । एतैः समग्रा वैदर्भी वर्ण्यते दशभिर्गुणैः ॥ ८ ॥ 'असमस्ता द्वित्रपदसमस्ता वा मनोहरा । वर्गद्वितीयप्रचुरा' स्वल्पघोषाक्षरा यथा ॥ ९ ॥ 1.सरसा यत्र शब्दाथो 2. A. आक्लष्टकः 3. A. अनयार्थ 4. A. असम्त्वाददि xxxxx 5. A. प्रचुर xxxx