पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ अलङ्कारसङ्ग्रहः सुकुमारोऽङ्गविन्यासो मसृणो ललितं यथा ॥ ५५ ॥ " सभ्रभङ्गं करकिसलयावर्तरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरपातै- र्निस्सङ्गीतं प्रथमवयसा नर्तिता' पङ्कजाक्षी ॥ " वक्तव्यमपि यन्नोक्तं व्रीडया विहृतं यथा । “ पादाङ्गष्ठेन भूमिं किसलयमृदुना सापदेशं लिखन्ती भूयोभूयः क्षिपन्ती मयि शितशबले लोचने लोलतारे । वक्तू हीनम्रमीषस्फुरदधरपुटं वाक्यगर्भ दधाना यन्मां नोवाच किञ्चिस्थितमपि हृदये मानसं तद्दनोति ॥" इत्युदाहृतयो नेतृगुणेषृह्या यथोचितम् ॥ ५६ ॥ नेतारो बहवः सन्ति धीरोदात्तो जगत्रये । मृम्यनीयो विशेषेण चैको मन्वमहीपते ॥ ५७ ॥ इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे नेतृभेदविचारो' नाम चतुर्थः परिच्छेदः । 1. आपतन्ती. 2.लोचनस्यान्तिके तं 3. गभिंता. 4, दीनं ममेषत्' 5. यस्मान्नाच 6. तद् धुवोति 7. विनिर्णयो.