पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२ अलङ्कारसङ्ग्रहः

"आसितानि हसितानि कृतानि प्रेक्षितानि गदितानि गतानि । प्रायशोऽनुकुरुते ललिताङ्गी नर्तकीव चतुरं दयितस्य ॥ " प्रिये 'दृष्टे विलासोऽङ्गक्रियाद्यतिशयो यथा ॥ ५१ ॥ " अत्रान्तरे किमपि वाग्विभवतिवृत्ति- वैचित्र्यमुल्लसितविभ्रममुत्पलाक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्य- माचार्यकं किमपि मान्मथमविरासीत् ॥" स्वल्पाप्यलंक्रिया कार्याद्विच्छित्तिस्तोषकृद्यथा । " कर्णार्पितो लोध्रकषायरूक्षे गोरोचना भङ्गनितान्तगौरे । तस्याः कपोले परभागलाभा- टूबन्ध चक्षुंषि यवप्ररोहः ॥ " विभ्रमस्त्वरया काले भूषणव्यत्ययो यथा ॥ ५२ ॥ " श्रुत्वा' यान्तं बहिः कान्तमसमाप्तविभूषया । फालेऽञ्जनं दृशोर्लाक्षिा कपोले तिलकं कृतम् ॥" किलिकिञ्चितमक्ष्रुकृद्धर्षादेः सङ्करो यथा । " रतिक्रीडाद्यते कथमपि समासाद्य समयं मया लब्धे तस्याः क्कणितकलकण्ठार्थमधुरे । 1. दृष्टि, 2. क्षेप . 3. युवप्ररोहः 4. कृत्वायातं