पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः परिच्छेदः ३१ दिनविगमजिगीषोदपिकेवासमेषो- क्ष्चति चकितपादन्याससम्भावितोर्वी ॥" अक्ष्लाध्यवस्तुयोगेऽपि माधुर्य रम्यता यथा । " सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥' व्रीडोत्थसाध्वसत्यागः प्रागल्भ्यं गीयते यथा ॥ ४९ ॥ “तथा व्रीडाविधेयापि तथा भुग्धापि सुन्दरी ।" कलाप्रयोगचातुर्थे सभास्वाचार्यकं गता ॥" ; औदार्यं प्रश्रयोत्कर्षो बह्वायासेपि तद्यथा । " अलसारुणलोचनारविन्दां परिभोगोचितधूसरैकचेलाम् । शिथिलाकुलवेणिबन्धरम्या- मबलामन्तिकशायिनीं दिदृक्षे ॥" अचापल्यहतं चित्तवृतं धैर्य मतं यथा ॥ ५० ॥ “ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः क्ष्लाध्यस्तातो जनन्यमलान्वया कुलमलिनं नन्वेवायं जनो न च जीवितुम् ॥' प्रियानुकरणं लीला मधुरैश्चेष्टितैर्यथा । 1 अक्ष्लाय : 2. गीर्यते. A. नीरते. 3. विदेयापि. 4ं. A. भिनयोत्कर्षों.