पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० अलङ्कारसङ्ग्रहः

" व्याजमुxxxधुरैरविन्दकोण- निर्यन्भधुव्रतनिकायनिभैः कटाक्षः । भावावतारपिशुनैरपि भी वयस्य बाला भवन्तमकरोदपदेशलक्ष्यम् ॥ " स एव हेला सुव्यक्तशृङ्गारद्योतका' यथा । “मकरन्दपानमत्तां मधुकरमालमिव श्यामाम् । लालसललितापाङ्गां दृष्टि प्रेषयति दूतिकमिव ते ॥ " रूपोपभोगतारुण्यैः शोभाङ्गालङ्कतिर्यथा ॥ ४७ ॥ " तां प्राञ्जाखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्ब्यन्त पुरो निषण्णाः । भूतार्थशोभहियमाणनेत्राः प्रसाधने सन्निहितेऽपि नार्यः ॥" शोभैव रागनिबिडा' कान्तिरित्युच्यते यथा । " उन्मीलद्वदनेन्दुदीप्तिविसैर्रदूरे समुत्सारितं भमं पीनकुचस्थलस्य च रुचा हस्तं प्रभागर्हितम् । एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुका- दप्राप्ताभिमुखं रुषेव सहसा केशेषु लमं तमः ॥ " कान्तेरेव हि विस्तारो दीप्तिरित्युच्यते यथा ॥ ४८ ॥ " वनतरुवरवाटीवर्ति’ गाढं पुरस्ता त्ततनिजतनुकान्त्या तर्जयन्ती तमिस्रम् । 1. द्योतको, A. द्योतका 2. प्रसादने . 3. निचिता; 4. रुषैव 5. कान्तिरेव. 6. वर्त्र 7. वर्जयन्ती