पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ अलङ्कारङ्गीहः देशान्तरगते प्रोषितप्रिया दयिते यथा । " उत्सङ्गे सा' मलिनवसने सौम्य विक्षिप्य वीणां ‘मद्गौत्राङ्कं विरचितपदं गेयमुद्रातुकामा । तन्त्रीमार्द्रा नयनसलिलैः साधयित्वा कथंचित् भूयोभूयः स्वयमधिकृतां मूर्छनां विस्मरन्ती ॥ " चिरयत्यव्यळीके तु विरहोत्कण्ठिता यथा ॥ ३२ ॥ " सखि स विजितो वीणावाधैः कयाप्यपरख्यिा पणितमभक्ताभ्यां त्वत्र क्षपा ललिता ध्रुवम् । कथमितरथाऽशेषालीषु स्खलत्कुसुमास्वपि प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलन्ध्यते । खण्डितेर्ष्यावती ज्ञातस्मरचिहे प्रिये यथा । " नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प- न्नवरिमळगन्धः केन शक्योऽपनेतुम् ॥" सरेद्वा सारयेद्वाऽभिसारिका 'कामिनी यथा ॥ ४० ॥ “प्रचलितनिजलज्जाः प्राडभुस्वं वीक्षमाणः तिभिरविगमभीतास्तूर्णभुत्तीमार्गाः । वलयचलनलोला वञ्चितात्मीयलोकाः सततमभिसरेयुः सागसोऽप्यात्मनाथान् ॥ " 1. दयिता . 2. वा . ४. यशसे, 4. यद्वोत्राङ्कं. 5. सारयित्वा, 6. न 7, वति; खण्डितेर्ष्यरतिज्ञानस्मरचिह्ना प्रिया यथा . खणितेपतिज्ञातस्मरचिह्मप्रिया यथा, 8. अङ्कं. 9. क्रीतुं. 10. सरेहूभिसरेद्वा. 11 . कामुकी. A. नायिका .