पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः प्रिच्छेदः १९

हास्यः सुधाशुभ्रवर्णो हेरम्बोऽस्याधिदेवता । कषायवर्णः करुणो यमस्तस्याधिदेवता ॥ ५९ ॥ रौद्रो जपारक्तवर्णो रुद्रस्तस्याधिदेवता । धूम्रो भयानकस्तस्य महाकालेऽधिदेवता ॥ ६० ॥ बीभत्सो नीलमेघाभो नन्दी तस्याधिदेक्ता । अद्भुतः कनकच्छायो ब्रह्मा तस्याधिदेवता ॥ ६१ ॥ शान्तः स्फटिकवर्णः स्यात्परब्रह्माधिदेवता । हास्यः शृङ्गारसंभूतः करुणो रौद्रसम्भवः ॥ ६२ ॥ वीरादद्भुत उत्पन्नो बीभत्सोत्थो भयानकः । शृङ्गारबीभत्सरसौ तथा वीरभयानकौ ॥ ६३ ॥ रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः । शान्तः सर्वरसोत्कृष्टो न मैत्री न विरोधिता ॥ ६४ ॥ रसभावोचितवर्णैः कर्णामृतवाक्यकल्पितैः क्ष्लोकैः । क्ष्लोकैरपि लाल्यगुणो मानी' निर्वेतु गण्डमन्मनृप ॥ ६५ ॥ इत्यमृतानन्दयोगीन्द्रविरचिनेऽलङाग्यङटे xxxxxxxx 1. लोकैः 2. मानिम्निर्वेतु