पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः

सञ्चारिणो यथायोग्यं निर्वेदोद्वेजनादयः । विस्मयस्तु विभावाघैः पुष्टोऽभूदद्भुतो यथा ॥ ५२ ॥ “ सूतः सायकसम्भवः समुदिताः सूताननेभ्यो हयाः नेत्रे द्वे रथिनो रथाङ्गयुगळं युम्यान्तमृग्यो रथी । मौवीं मूध्नि रथस्थितो रथवहश्चापः शरव्यं त्रयं योद्धुः कोशचरं तदेतदखिलं त्राणं रणं पातु नः ॥" अलौकिकचमत्कारि वस्त्वालम्बनभिष्यते । उद्दीपनविभावाः स्युः अहोवादादिवर्णनाः ॥ ५३ ॥ अनुभावा नेत्रवक्त्तूकाः गण्डविस्फुरणादयः । सात्त्विकाः स्वेदरोमाञ्चप्रमुखाः समुदीरिताः ॥ ५४ ॥ हर्षवेगादयो भावाश्चात्र सञ्चारिणो मताः । शम एव विभावाघैः पुष्टः शान्तरसो यथा ॥ ५५ ॥ " आशायाः प्रशमध्य वेगमखिलं निर्णीय विक्ष्वं जडं नीत्वा शान्तिपदे शनैस्तत इतो डेोलायमानं मनः । कृत्वा चेतसि केवलं पशुपतेरैश्वर्यमव्याहतं कोणे कुत्रचिदास्महे वयममी कोलाहलैः किं फलम् ॥ " अलालम्बनभावः स्याच्छम्भोस्तच्छाश्वतं पदम् । उद्दीपनास्तु वेदान्तवेदिसम्भाषणादयः ॥ ५६ ॥ अनुभावास्तु कथ्यन्ते समतादर्शनादयः । सात्त्विकाः स्तम्भरेमाञ्चप्रमुखाः परिकीर्तिताः ॥ ५७ ॥ सञ्चारिणोऽपि निर्वेदमतिधृत्यादयो मताः । श्रृङ्गार उत्पलाभः स्याद्विष्णुस्तस्याधिदेवता' ॥ ५८ ॥ 1, गन्धविसफारणा, 2, आकाया 3, बेद, 4, अधिदैवतम्