पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः परिच्छेद १७

भयमेव विभावाचघैर्भयानकरसो यथा । "नीलेन ते नीररुहाक्षि गात्रं चेलेन संछादय चञ्चलाभम् । इतीरयन्त्यद्रिगुहासु लीनाः त्वद्वैरिणो वीक्ष्य तमोविघातम् ॥" आलम्बनविभावाः स्युः शत्रुव्याघ्रोरगादयः ॥ ४६ ॥ उद्दीपनविभावाः स्युरत्र तद्गर्जनादयः । अनुभावास्तु वैवण्यैकम्पस्वेदादयो यथा ॥ ४७ ॥ त एव सात्विका भावास्तत्राष्टौ स्पष्टलक्षणाः । सञ्चारिणो मोहदैन्यत्राससम्भ्रमंणादयः ॥ ४८ ॥ जुगुप्सैव विभावाधैर्याता बीभत्सतां द्विधा । जुगुप्स्यदर्शनादेको वैराग्यादपरो यथा ॥ ४९ ॥ " वङ्गक्षोणिभुजा पराक्रमयुजा निर्वासिता वैरिणः सन्दिष्टाः प्रतिचत्वरं प्रतिमठं ये नृलकापालिकाः । पूयार्द्रव्रणसंस्पृशो व्यपनयन्तः सत्वरं मक्षिका भिक्षाभक्तविकीर्णशाकशकलान्येकत्र सञ्चिन्वते ॥ " " चारशठचोरचेटकविटनटनिष्ठीवनशरावम् । कश्चुम्बति कुलपुस्रो वेश्याधरपल्लवं मधुरमपि ॥ " आलम्बनविभावाः स्युरहृद्या ये जुगुप्सिताः । उद्दीपनविभावा ये पूतिगन्धादयो मताः ॥ ५० ॥ अत्रानुभावा नासास्यकूणनावेगपूर्वकाः । ऊह्यास्तत्र यथायोग्यं सात्त्विकाः पुलकादयः ॥ ५१ ॥ 1. संविछः 2. मनोज्ञमपि ; मधुरमपि 3. नासाघा