पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः

मन्मस्तकेऽर्पितक्ती मधुपानमत्ता धिक्त्तस्य मानमिह किन्नु विमाननाय ॥ " उद्दीपनविभावाः स्युस्तद्भाषाकारविक्रियः । भावकाक्षिविकासाद्याः अनुभावाः प्रकीर्तिताः ॥ २९ ॥ अश्रुवैवण्र्यवैस्वर्यप्रमुखाः सात्विकाः स्मृताः । अत्र 'हासाश्रुमत्यादिभावाः सञ्चारिणौ मताः ॥ ३० ॥ उत्तमादिविभेदेन त्रिधा हास्यरसो मतः । स्मितं च हसितं चेताक्नुभावाविहोतमे ॥ ३१ ॥ आघं क्किासिगण्डं स्यादीषल्लक्ष्यरदं परम् । मध्यमं स्याद्विहसितं तथोपहसितं परम् ॥ ३२ ॥ मृदुस्वनं स्यात्प्रथमं शिरःकम्पं परं मतम् । अधमे ‘चापहसितं तृथाऽतिहसितं मतम् ॥ ३३ ॥ शिरःकम्पाश्रुमत्पूर्व विक्षिप्ताङ्गं द्वितीयकम् । शोक एव विभावाघैः पुष्टः करुणतां गतः ॥ ३४ ॥ इष्टनाशादनिष्ठाप्तेः करुणोऽपि द्विधा मतः । नष्टो वानिष्टयुक्तो वा बन्धुरालम्बनं यथा ॥ ३५ ॥ " कस्तवाद्य कथमर्पयेत्सुधां नाथ नष्टनयनोऽसि सांप्रतम् । हन्त वीतकरुणो हठात्कथं यष्टिमन्धविधृतां यमोऽहरत् ॥ " 1. मचित्तके 2. वित्तस्यदान 3. हर्षश्रमत्वादि 4. चाष्ट्रहसितं 5. xx 6. xxxx