पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मुख्यो लक्ष्यस्तथा गौणो व्यङ्गयश्चेतीह कथ्यते । स मुख्यः कथितः साक्षात्सङ्केतेनाभिधीयते ॥ ११ ॥ जातिक्रियागुणद्रव्यभेदात्सोऽपि चतुर्विधः । गैश्चलो धवलो डित्थ इत्युदाहरणं मतम् ॥ १२ ॥ वाच्यार्थानुपपतौ यस्तत्सम्बन्धी प्रतीयते । xxनंवादन्यो लक्ष्योऽर्थो लक्षणा त्रिधा ॥ १३ ॥ वाच्यार्थस्य परित्यागादन्योऽर्थो यत्र लक्ष्यते । सा जहलक्षणा ज्ञेया गङ्गायां घोष इत्यसौ ॥ १४ ॥ वाच्यार्थस्यापरित्यागान्योऽर्थो यत्र लक्ष्यते । अजह्वल्लक्षणा कुन्ताः प्रविशन्तीति सा मता ॥ १५ ॥ जहती चाप्यजहती स्वार्थे या तूभयत्मिका । सा छत्रिणो व्रजन्तीति तन्नोदाहरणं मतम् ॥ १६ ॥ एकेन च्छत्रिणाऽन्येषां छत्रित्वमिह लक्ष्यते । स गौणो गुणसादृश्यादन्योऽर्थो यः प्रतीयते ॥ १७ ॥ उदाहरणमेतस्य सिंहो माणवको यथा । मुख्यार्थबाधे तद्योगाद्यङ्गयो लक्ष्यस्य यत्फलम् ॥ १८ ॥ नायं मुख्यो न वा लक्ष्यो लक्षणायाः फलं यतः । गङ्गा मुख्यस्तटं लक्ष्यो व्यङ्गयः शीतलतादिकम् ॥ १९ ॥ अनेकवाचकः शब्दो यत्र वाक्ये व्यनक्ति तत् । व्यञ्जनं त्वभिधम्मूलं संयोगादिभिरुच्यते ॥ २० ॥ संयोगो विमयोगक्ष्च साहचर्ये विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ २१ ॥ 1. साधनात. 2.शक्यं 3. व्यङ्गयं.