पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः परिच्छेदः (चतुर्थोत्कलिका)स्याद्वा विभक्तयाभासलाञ्छिता कलिकोत्कलिकान्यष्ट नव्यताळलयन्विताः । प्रतिपद्य भवेन्नेतृनाम तत्तद्विभक्तिमत् । वीरावळी कीर्तिमती सुभगा भोगमालिनी ॥ कळावती कान्तिमती कमला जयवत्यपि । एता विभक्तयधिष्ठात्र्यो देवताः कथिता बुधैः ॥ ददत्येताः स्तुतिप्रीताः स्वस्वनामसमं फलम् । (पद्यमे)कं च कर्तव्यमन्ते सर्वविभक्तिकम् ॥ (आर्यामनूद्यत)कुथात् कवि श्रुत्याख्यया ततः । अप्राकृता प्राकृता वा प्राकृतोन्मिश्रितापि वा । देशीभिश्च पदैर्युक्ता'(मिश्रितैः पद) सञ्चयैः । वशवीर्यश्रुताघैश्च युक्तोदाहरणा मता ॥ अमुष्य नायकाः प्रोक्ता देवा दैत्या महीसुराः । गुरुरक्षणया सार्थे सचिवाः सैनिकाधिपाः ॥ विभक्ति (सप्तसंयुक्ताया सम्बुध्या) विनाकृता । अद्धवीति समास्याता सद्भिश्चाटु विशारदैः ॥ केवलं कलिकासङ्गात्कल्याणीति निगद्यते । केवलोत्कलिकासङ्गादुत्फुल्लुकवती भवेत् ॥ यस्या उत्कलिकास्थाने केवलार्या प्रयुज्यते । फलोदाहरणं तत्स्यादार्यासङ्गान्न भिद्यते । केवला प्रथमा वाणी द्वितीया केवला झटा। तृतीया केवला(कीर्ति)र्चतुर्थी देवलाभिनी ॥ पञ्चमी केवला(पाणी) षष्टी (मोटी)ति कथ्यते । सप्तमी(घोटेिक) प्रोक्ता सम्बुद्धिः सरसावळी ॥ 1. चवतर्युत्कलिक 2. दीरवती. 3. (...) 4. (...) 5. ( … युवाता ...) 6. B. संस्तवी. 7. (की. ..).