पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः परिच्छेदः अथ चाटुप्रबन्धानां लक्षणं कथ्यतेऽधुना । मुक्तकं पद्यमेकं स्याद्दिकं पद्यद्वयं मतम् ॥ त्रिकं त्रयेण पधानां पञ्चरत्नानि पञ्चकम् । अष्टकं गजमाला स्यान्नक्कं रलमालिका ॥ नामावळी द्वादशं स्याच्छोडशेन्दुकला मता । सप्तविंशति पद्यानि नाम्ना तारावळी मता । त्रिंशता त्रिंशिका पञ्चाशता पञ्चाशिकेष्यते । शतेन शतकं प्रोक्तमष्टोत्तरशतं परम् । वृतैरभिन्नैर्वा कार्यमेकं यथा(रुचि) । काव्यमप्येकसर्गादि द्वात्रिंशदवधिस्मृतम् ॥ अथोदाहरणायास्तु लक्षणं कथ्यतेऽधुना । कल्पनीयानि पद्यानि सप्त सप्तविभक्तिभिः ॥ सम्बोधनात्मिका चान्ते विभक्त्तेष्वष्टमो भवेत् । शकरीप्रभृतीनि स्युश्छन्दांस्यस्य यथारुचि । रीतिः प्रधाना गौडीया गतिः स्याद्द्रुतमध्यमा । ओजः प्रसदझब्दाः स्युः सानुप्रासाः कचित्कचित् ॥ विभक्त्तिपुरसा ……………. रौमं क्रमेण वा । १ तत्राद्यं मालिनीवृत्तं जयेत्यादिसमन्वितम् । ततः सत्कलिका कार्या समस्ताब्धिपदात्मिका । ? अन्ते 'तूत्कलिका युक्ता यत्यनुप्रासशोभिनी ॥ 1. द्वादशे.........न्दुकला मता । 2. पद्यसमा.