पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः


न्यायानुवृत्तिरेकत्र नीतिरित्युच्यते यथा ॥ ११ ॥ " स्नेहं प्रति न पुत्रेषु विशेषः कश्चिदस्ति मे । किं तु न्यायं पुरस्कृत्य मया ज्येष्टोऽभिषिच्यते । ” उत्तेजनं तु कार्यार्थं यत्नानक्षरमुच्यते । उत्तेजन तु कार्यार्य यत्नानक्षरमुच्यते । यथा - “ इन्द्रांजञ्चण्डवीर्येऽसि नाम्नैव बलवानसि । धिक् धिक् प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ॥" सिद्धैः परं समं क्ष्लिष्टं साध्यं शोभाऽभिधीयते ॥ १२ ॥ यथा - “सद्वश सम्भुवः शुद्धः ‘कुटिलोऽपि गुणान्वितः । कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः ॥” अभिमानोऽपरित्यागः पक्कदुःखसुखस्य च । यथा - “खरेन्द्रजिद्दषणकुम्भकर्णा गताः किमेतेन गता गतास्ते । अहं च गच्छामि यदि प्रणाशं तथाऽपि 'सीतां न च मर्षयामि ॥' अनिश्चयेन वाक्येन समाप्तिः संशयो यथा ॥ १३ ॥ " इयं स्वर्गाधिनाथस्य लक्ष्मीः किं यक्षकन्यका । अथ वा विपिनस्यैव देवता किमु पार्वती ॥” 1. तं प्रच्छन्नः खरूपेण युध्यतेऽस्माद्भयाकुल. 2. कोटिदोऽपि. 3. किं चास्य विषयस्यैव.