पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः परिच्छेदः

यथा-- " अन्यासक्तमवध्यं च निध्नन् क्षात्नपराड्पुख । न कथं लक्ष्मणो धन्वी लञ्जते हृदयादपि ॥ "

पश्चात्तापोऽनुताफ्स्तु कृत्वा................। ………… नेिध्नन् भ्रातृयुद्धाभियोगिनम् । अहं सूर्यकुलस्याद्य कलङ्क किं कृतं मया ॥" स्पृहा यस्त्वभिलाषः स्याद्वस्तुनो रामणीयकम् ॥ ९ ॥ यथा-- दशमः पस्च्छेिदः " जीवत्सु तातपादेषु नवे दारपरिग्रहे । भ्रातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥" अधिक्षेपवचोयुक्तः कोपजः क्षोभ उच्यते । यथा -

  • त्वया तपस्वि चण्डाल ! प्रच्छन्नवधवर्तिनः ।

न केवलं हतो वाली स्वात्मा च परलोकतः ॥ " शोकप्रलाप आक्रन्दो नाट्यविद्भिरुदीरितः ॥ १० ॥ यथा--

  • हा विधे नष्टपक्षेण मय्येव परिवर्तसे ।

हतस्तातो हृता पली भ्राता............॥” परिहारः स विज्ञेयः कृतानुचितमार्जनम् । यथा - " प्राणप्रयाणदुःखात उक्तवानस्यनक्षरम् । तत् क्षमस्व विभो ! किञ्च सुग्रीवस्ते समर्पितः ॥ " 1, अर्जितम् . 2. उक्तवानत्यनक्षरम् ।