पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३० अलङ्कारसङ्ग्रहः


सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ॥ " वचसा कर्मणा प्रीतिर्यस्मिन्ननुनयो हि सः ॥ ६ ॥ यथा ---- "xxxxxx द्वे पतिष्टे प्रतिष्टे कुलस्य मे । समुद्ररशना चोवीं सखी च यूवयोरियम् ॥" उद्दिष्टं स्यात्परोक्षे च प्रत्यक्षे चार्थकीर्खनम् । यथा - " प्रतस्मिन् जीवति दुर्धर्षे हतमप्य (हतं 'वलम्) । (xxxx) प्राणे जीवन्तोऽपि मृता वयम् ॥ " प्रत्यक्षे यथा -- " हा धिक् प्रियतमा सेयं दुःसंस्थाममलीभसा । सवैकप्रत्यभिज्ञेया मूर्ते भवति तद्यथा ॥ " (दाक्षिण्यं) क्ष्लक्ष्णया वाचा परचित्तानुवर्तनम् ॥ ७ ॥ यथा- " प्रसाधय पुरीं लङ्कां राजा त्वं हि विभीषण । आर्येणानुगृहीतस्य न विध्न्नः सिद्धिमन्तरा ॥ " प्रसिद्धिर्लोकसिद्धार्थेरुत्कृष्टैरर्थसाधनम् । यथा- " सूर्शन्द्रमसा यस्य मातामहपितामहौ । स्वयं वृतः पतिद्वभ्यामूर्वश्या च भुवा च थः ॥ " य....................द्भेदेन कृत्सनम् ॥ ८ ॥