पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः परिच्छेदः अथ नाट्यालङ्काराः-सिद्धिः प्राप्तिर्विचारश्चानुनयस्तदनन्तरम् । उद्दिष्टमपि दाक्षिण्यं प्रसिद्धिर्गर्हणं यथा ॥ १ ॥ पश्चात्तापस्पृहाक्षोभाऽऽक्रन्दाः परिहृतिस्तथा । नीतिरुतेजनं शोभाऽभिमानः संशयस्तथा ॥ २ ॥ तुल्यतकर्कोऽक्षमा चैवाध्यवसायो विमर्शनम् । युक्तिः प्रोत्सहनं चैव साहाय्यं च निवेदनम् ॥ ३ ॥ अभिज्ञानं च पृच्छा चातिशयो गुणकीर्ततम् । इति त्निंशदलङ्काराः प्रायो ना टेयषु सङ्गता ॥ ४ ॥ सिद्धिरिष्टार्थसंसिद्धेरनेकेषामुदाहृतिः । यथा -- " हे भूतधात्नि यदि तावदहं विशुद्धा तन्मे वरौ....व देवि वृणे वरं च । हे विष्णु वासव महेश्वर चन्द्रसूर्यौ जन्मान्तरेषु भविता प्रभुरेष रामः ॥ " प्राप्तिः सा समुदायस्य ज्ञानं यच्चैकदेशत ॥ ५ ॥

यथा - " हंस प्रयच्छ मे कान्तां गतिस्तस्या हृतस्त्वया । सम्भावितैकदेशेन स्तेयं यदभियुज्यते ॥ " विचारः स हि विज्ञेयः संशये निर्णयस्तु यः । " असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।