पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ अलङ्कारसङ्ग्रहः

शेष नाटकक्त्त्सव संलापक उदाहृतः । निदर्शनं कनकक्तीमाधवमवेक्ष्यताम् ॥ १४८ ॥ अथ प्रस्थानम्-- दासादिनायकं दासीनायिकं द्वयङ्कमीरितम् । कैशिकीवृत्तिबहुळं बहुताळलयान्वितम् ॥ १४९ ॥ सुरापानसमायुक्त्तं तथा हीनोपनायकम् । विलासोद्दिष्टसंक्षितं प्रस्थानमिति कीर्तितम् ॥ १५० ॥ निदर्शनमिह ज्ञेयं शृङ्गारतिलकाह्वयम् । अथ काव्यम् - काव्यमारभटीहीनमेकाङ्कं हास्यसङ्कलम् ॥ १५१ ॥ गर्भावमर्शसन्धिभ्यां हीनं शृङ्गारभावितम् । खण्डमात्राद्विपदिकाभग्नताळेरलङ्कृतम् ॥ १५२ ॥ उदात्तोक्तिसमायुक्तं बहुताळलथान्वितम् । निदर्शनं तु काव्यस्य विज्ञेयो यादवोदयः ' ॥ १५३ । । अथ रासकम्- हल्लीशकं तु सप्ताष्टदशस्रीजनसङ्कलम् । संप्रयोज्यैकपुरुषं कैशिकीवृत्तिभूषितम् ॥ १५४ ॥ एकाङ्गं स्यादुदात्तोक्तिबहुताळलयात्मकम् । निदर्शनं भवेदस्य केळिरैवतकं मतम् ॥ १५५ ॥ अथ रासकम्- अथ रासकमेकाङ्क सूत्रधारेण वर्जितम् । सुक्ष्लिष्टनान्दीसहितं पञ्चपात्नं द्विसन्धिकम् ॥ १५६ ॥ पूर्ण भाषाविभाषाघैर्भारतीकैशिकीयुतम् । वीथ्यङ्गमण्डितं मूर्खनायकं रव्यातनायिकम् ॥ १५७ ॥ 1. माधवोदथः .