पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः परिच्छेदः १२५

क्ष्लक्ष्णेनेफ्ध्यभाङयन्दपुरुषा च प्रकीर्तिता । कैशिकीभारतीप्राया त्वङ्गैः सप्तभिरुज्ज्वला ॥ १३७ ॥ उपन्यासोऽथ विन्यासो विबोधः साध्वसं तथा । समर्पणं चानुवृत्तिः' संहारश्चापि सप्तमः ॥ १३८॥ प्रसङ्गात्कार्यकथनमुपन्यासः प्रकीर्तितः । निर्वेदवाक्यव्युत्पत्तिस्तत्न विन्यास उच्यते ॥ १३९ ॥ विबोधो भ्रान्तिनाशः स्यान्मिथ्याख्यानं तु साध्वसम् । समर्पणमुपालम्भवचः स्यत्कोपविद्धया ॥ १४० ॥ अनुवृत्तिर्निदर्शनस्योपन्यासः प्रकीर्तितः । समापनं तु कार्यस्य संहार इति कीर्तितः ॥ १४१ ॥ मुखनिर्वहणोपेता कामदत्ता निदर्शनम् । अथ सलापक :- नवमः परिच्छेदः पुरोपरोधसङ्गामविद्रवैः कपटैर्युतः ॥ १४२ ॥ कैशिकीभारतीहीनो भवेत्पाषण्डनायकः । हीनोपनायकयुतः श्मशानादिसमाकुलः ॥ १४३ ॥ सप्तविंशतिरङ्गानि भवन्त्यस्य यथोच्यते । उत्कण्ठा चावहित्था च प्रयत्नो निधनं तथा ॥ १४४ ॥ आशंसातर्कसंदेहतापोद्वेगाश्च मुग्धता । आलस्यं प्रतिपत्तिश्च विलापो वाम्यमेव च ॥ १४५ ॥ साधनानुगमोच्छ्वासक्स्मियाश्च चमत्कृतिः । विस्मृतिर्लोभसम्फेटौ वैशारद्यं प्रबोधनम् ॥ १४६ ॥ आश्वासश्च प्रहर्षश्च प्रसक्तिरिति कीर्तिताः । सलक्षणोदाहरणं व्यक्तत्वान्नात्न दर्शितम् ॥ १४७ ॥ 1. निवृतिश्च, (e. D.)