पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ अलङ्कारसङ्ग्रहः

त्रोटकं नाम तद् ज्ञेयं गूढनाटकलक्षणम् । सप्ताष्टनवपञ्चाकं अन्यन्नाटकवन्मतम् ॥ १२८ ॥ सप्ताङ्कं स्तम्भितरम्भस्त्वष्टाङ्कं मदनरेखा । मेनकानहुषाख्यं स्यान्नवाङ्गं परिकीर्तितम् ॥ १२९ ॥ प्रकीत्येते परं प्राज्ञैः पञ्चाङ्क विक्रमोर्वशी । अथ प्रेङ्गणम्- गर्भावमर्शहीनं वा मुखनिर्वहणान्वितम् ॥ १३० ॥ सूत्नधारविहीनं च सर्ववृत्तिसमन्वितम् । नियुद्धसंफेटयुतं परिवर्तकभूषितम् ॥ १३१ ॥ मागधीशौरसेनी वा हीननायकचेष्टितम् । नेपथ्यनाट्यगीतं च तथा तत्न प्ररोचना ॥ १३२ ॥ अप्रवेशकविष्कम्भमेकाङ्क प्रेङ्खणं विदुः । निदर्शनमिह ज्ञेयं वस्तु वालिवधादिकम् ॥ १३३ ॥ अथ गोष्टी- अथ गोष्टी मतैकाङ्का कैशिकीवृत्तिशालिनी । कामशुङ्गारसंयुक्ता पञ्चषड्योषिदन्विता ॥ १३४ ॥ प्राकृतैर्नवभिः पुंभिर्दशभिर्वाप्यलङ्कृता । गर्भावमर्शसन्धिभ्यां 'शून्या नोदात्तवाक्कृता ॥ १३५ ॥ निदर्शनं रैवतमदनिकाख्यमिहोदितम् । अथ भाणिका-- अथ स्याद्भाणिकोदात्तनायिकैकाङ्गभूषिता ॥ १३६ ॥ 1. प्रकृतैः. 2. हीनोदात.