पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः परिच्छेद उदात्तभावविन्याससंश्रितं चीत्तरोत्तरम् । गर्भावमर्शशून्यं च यथा स्यान्मेनकाद्विजम्' ॥ १५८ ॥ अथ श्रीगदितम् - करुणं श्रीसमासीना गायेद्यत्न पठेदपि । एकाङ्कं भारतीप्रायं तच्छीगदितमुच्यते ॥ १५९ ॥ गर्भावमर्शरहितं प्रख्यातोदात्तनायकम् । प्रसिद्धनायिकं ज्ञेयं यद्वत्क्रीडारसातलम् ॥ १६० ॥ अथ लासिका - शृङ्गारबहुलैकाङ्का त्निसन्धिन्यूननायिका । स्वल्पनृताल्पनेपथ्या पीठमर्देन भूषिता ॥ १६१ ॥ विदूषकविटोपेता दशलास्याङ्गभूषिता । लासिका सा समुद्दिष्टा यथा वीणावती मता ॥ १६२ ॥ अथ दुर्मल्ली - दुर्मल्ली चतुरङ्का स्यात्कैशिकीभारतीयुता । विगर्भा नागरनरा न्यूननायकभूषिता ॥ १६३ ॥ विनाडि. प्रथमोऽङ्कोऽस्यां विटक्रीडामयो भवेत् । द्वितीयः पञ्चनाडिः स्यात् विदृषकविलासवान् ॥ १६४ ॥ (षणाडिस्तु तृतीयः स्यात्पीठमर्दीवेलासवान्) । चतुर्थो दशनाडिः स्यादङ्कः क्रीडितनागरः । निदर्शनं भवेदत्र यथा बिन्दुमती मता ॥ १६५ ॥ अथ नाट्यरासकम्- नाट्यरासकमेकाङ्कं बहुताललयात्मकम् । हास्यशृङ्गारसंयुक्त्तं दशलस्यङ्गभूषितम् ॥ १६६ ॥ 1. मेनकाहिकम् ; 2. मूले नास्ति .