पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ अलङ्कारसङ्ग्रहः

एकं त्रीणि नवाष्ट सप्त षडितिप्रध्वस्तसङ्खयाक्रमा वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः ॥" अन्यार्थ एव व्याहारो हास्यलोभकरो यथा । (लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति) विदूषकः-मा दाव उवएससुद्धा गमिस्ससि । इत्युपक्रमणे । गणदासः- (विदूषकं प्रति) आर्य ! उच्यतां यस्त्वया क्रमभेदो लक्षितः । विदूषकः -पढमंपच्चूसे बम्हणस्स पूआ भोदि। सा त ए लंघिदा(मालविकास्मयते) दोषा गुणा गुणा दोवा यत्न स्युर्मृदवो यथा ॥ ११३ ॥ " कष्टं खलु विप्रकुले जननं कष्टं च भार्यया विरहः । धन्याः शूद्रा येषां दारपरिग्रहणमल्पमूश्येन ॥ " एवं ‘वीथी विधातव्या द्वित्रिपालप्रयोजिता । आथाङ्कः उत्सृष्टकाङ्के प्रत्यातं वृतं बुद्धया प्रपञ्चयेत् ॥ ११४ ॥ रसस्तु करुणः स्थायी नेतारः प्राकृता नराः । भाणक्सन्धिवृत्त्यङ्गैर्युक्तः स्त्रीपरिदेवितैः ॥ ११५ ॥ वाचायुद्धं विधातव्यं तथा जयपराजयौ । अथेहामृगः- मिश्रमीहामृगे वस्तु चतुरङ्कः त्निसन्धिमत् ॥ ११६ ॥ नरदिव्यावनियमान्नायकप्रतिनायकौ । ख्यातौ धीरोद्धतावन्त्यो विपर्यासादयुक्तकृत् ॥ ११७ ॥ 1. शक्तिधरस्य शैशवकलाः . 2. मातावत् उपदेशशुद्धा गमिष्यसि । 3. प्रथमं प्रत्यूषे ब्राह्मणस्य पूजा भवति सा त्वया लङ्धिता । छाय . 4. देशी. 5. द्वयेकपात्रप्रयोजितः.