पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नक्मः परिच्छेदः १२१


सीता– जाद! कल्लं क्खु तुझेहिं अजुज्झाए गन्तव्दं । तहिं सो राआ। विणएण णमिदव्वो । लव:– अम्ब! किमावाभ्यां चापजीविभ्यां भवितव्यम् ? । सीता- जाद! सो क्खु तुह्माणं पिदा । लव:- किमावयो रघुपतिः पिता ? । सीता- (साशङ्कम्) 'जाद ण क्खु परं तुक्ष्राणं । सअलाए ज्जेव्व पुहवीए । बहुप्रपञ्चसंयुक्ता हास्यलेशसमन्विता । प्रहेलिकेव गूढार्था नालिकेत्युच्यते यथा ॥ १११ ॥ राजा---(पुरतो निर्वर्ण्य) “ वल्लरी किमुत वामलोचना दूरतो वसति दृष्टिवर्तिनी । वायुना चलति किं नु वर्तिना मन्मुखी मदनवेदना सहे ॥ " विदूषकः-वअस्स ! मए विणिच्चसि माम् । असम्बद्धकथाप्रायोऽसत्प्रलापो यथोत्तरः । विरहोन्मत्तबालादिभाषणेषु मतो यथा ॥ ११२ ॥ " हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता । विभावितैकदेशेन स्तेयं तदभियुज्यते । " भुक्ता हि मया गिरयः स्त्रतोऽहं वह्निना पिबामि नभः । हरिहरहिरण्यगर्भा मत्पुत्रास्तेन नृत्यमि ॥ " " आर्चिष्मन्ति विदार्य वक्तकुहराण्यासृक्कतो वासुके- रङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान्। 1. (जात कल्यं खलु युवाभ्यामयोध्यायां गन्तव्यं, तदिं स राजा विनयेन नमितव्यः ।) छाया. 2. राजोपजीविभ्यां. (द-रू) 3. जात स खलु युक्योः पिता । 4. जांत न खलु. परं थुक्योः, सकलाया एव पृथिव्याः । छाया.