पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० अलङ्कारसङ्ग्रहः


प्रतिक्रियान्वितो यस्तु प्रतिहारो मतो यथा । को मां हन्तुं समर्थः स्यादित्युक्तो रावणेन तु ॥ १०१ ॥ राक्षसो राम इत्याह किं राम इति चोदितः । पुनराह यथा रामः कदाचिदुपयास्यति ॥ १०२ ॥ ऊरीकृत्य परं मोहादशिवां तापमाहरत् । आत्मानं निर्दिशेद्यस्तु स रहो गण्ड उच्यते ॥ १०३ ॥ यदा दुर्योधनो भीमं हन्तीत्याशयवान् भ्रमात् । प्राह दुर्योधनं भीमो हन्तीति कुरुनायकः ॥ १०४ ॥ उत्सवोच्छूनरोमाञ्चः प्रविश्यामोदकृद्वयः । भाषते भावि यत्नासौ हर्षगण्डः स्मृतो यथा ॥ १०५ ॥ केनाप्यर्थेन कंसस्येयुक्तवत्येव यादवे । (हस) न्यागत्य काप्याह दारको जातवानिति ॥ १०६ ॥ उक्तमन्यार्थमन्येन वचोऽन्यार्थ प्रकल्पयेत् । सामान्यपदसामर्थ्यात् स गण्डः प्रतिभा यथा ॥ १०७ ॥ " यो जातोऽन्यत्र योऽन्यत्र वर्धितो मधुसम्भवः । परपुष्ठः स कृद्धोऽयं मारयत्यनिवारितः ॥ " इत्युत्कण्ठितया प्रोक्तं कंसेनाहितमन्यथा। द्यर्थो वाक्यस्य विन्यासः शुभाशुभसमन्वितः ॥ १०८ ॥ प्रत्यक्षं प्रोच्यते यत्न गण्डः स व्याहतो मतः । यथा देक्मुनिस्तत्र दानवं कंसमब्रवीत् ॥ १०९ ॥ सभृत्यबलवीर्यस्य प्राप्तोऽसि भवतः क्षयम् । 'रसोक्तस्यान्यथा व्यख्या 'यत्रावस्यन्दितं यथा ॥ ११० ॥ 1. प्रवृत्तः. 2. दपि वां. 3. ताव. 4. रसस्तस्या:. 5. विचार्या बुद्धिशालिमिः. ।