पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कादम्बिनी “ मन्मथो ननु मात्सर्यात्तद्रूर्पाजितस्तव । तापं तनोति नामुष्य नान्यथा कथभागतः ॥ " मानवती - अय्ये । सो एव्व सव्वत्तदीयदि ।

अन्योन्यवाक्याधिक्योक्त्तिः स्पर्धयाधिबलं यथा ॥

मीमः--- " सकलरिपुजयाशा यत्न बद्धा सुतैस्तै - स्तृणमिव परिभूतो यस्य गर्वेण लोकः । " इत्युपक्रमः- अये ! नाहं भवानिव विकत्थनाप्रगल्भः । किन्तु - "द्रक्ष्यन्ति न चिरात्सुप्त बान्धवास्त्वां रणाङ्गणे । मद्रदभिन्नवक्षो'ऽथिवेणिकाबन्धभीषणम् ॥ " गण्डं प्रस्तुतधिकारि भिन्न वेगोदितं यथा ॥ ९८ ॥ कादम्बिनी- वत्से ! समागतः । मानवती– (सानन्द) अय्ये कोऽसौ ? कादम्बिनी– ‘तवानुजः । मानवती- (सविषादं) अमुमेवान्यथा गण्डं प्राहुः पञ्चविधं परे । आकस्मिकमसम्बन्धं सम्बन्धमिव यत्पदम् ॥ ९९ ॥ वाचामन्ते स गण्डः स्याद्भाव्यनिष्टार्थसूचकः । प्रतिहारो रहो हर्षः प्रतिभव्याहतोऽपि च ॥ १०० ॥ 1. दीसदि. 2. वाक्यैरयुक्तिः. 3. इत्युक्तकमेण. 4. वक्षोऽब्धि. 5. भूषणम्. 6. समागता. 7. तवानुजा. 8. प्रायः. 9. पठेत्. 10. प्रतिबोध्याइतो;प्रतिमोष्या.