पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः परिच्छेद ११७

गूढार्थपदपर्यायमाल प्रक्ष्नोत्तरस्य वा । यत्नान्योन्यसमालापो द्वेधोद्धात्यं मतं यथा ॥ ९३ ॥ मानवती– अय्ये! कादम्बिणि! आ आदो तुहकालो कादम्बिनी- वत्से ! मानवती! अत एव खल्वहं विहरामि । किं त्वकाली- ऽप्ययं राजहंसः प्रविष्ट ज्ञति विचारयामि ॥ राजा- (समन्तादवलोक्य) (अनाकलितविहङ्गविहारः स्वगतम्) वचनमिदमात्मविषयं वाणैतमनयावधार्यते युत्तया । प्रमदानामनुरागः प्रायः प्राप्तेरपि प्रियं तनुते ॥ ९४ ॥ मानवती- अध्ये! रायहंसो कहिं दिटो ! कादम्बिनी - वत्से ! तव मानसे. मानवती– अय्ये! मत्तसि. “का क्ष्लाध्या गुणिनां क्षमा परिभवः कोयं स्वकीयैः कृतः किं दुःखं पस्संश्रयो जगति कः क्ष्लाध्यो य आश्रीयते । का मृत्यर्व्यसनं शुचं जहति के यैर्निर्जितः शत्नवः कैर्विज्ञातमिदं विराटनगरच्छब्नस्थितैः पाण्डवैः ॥ " यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते । प्रस्तुतेऽन्यत्न वा या स्याद्विधावलगितं यथा ॥ ९५ ॥ रामः-- लक्ष्मण । तातिवयुक्तामयोध्यां विमानस्थो नाहं प्रवेष्टुं शक्रोमि , तद्वतीर्य गच्छामि । "कोऽयं सिंहासनस्याधः स्थितः पादुकयोः पुरः । जटावानक्षमाली' च 'चामरीव विराजते ॥ " इति भरतदर्शनकार्यसिद्धिः विदूषकः--(अपवार्य) वअस्स! मह कण्ठे, कासेण कंडूदि होदि,किं कादव्वम् 1.प्रवीष . 2.चरामि . 3.कोऽपि. 4.नक्षवलयी. 5.दxxxxx.