पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः ११६

वृत्तयो हीनकैशिक्यो नेतारो देवदानवाः । द्वादशोदात्तविख्याताः फलं तेषां पृथक् पृथक् ॥ ८३ ॥ अङ्गी वीरोऽङ्गानि चान्ये यद्वदम्भोधिमन्थने । अङ्कैस्त्रिभिस्विकपटस्त्रिशृङ्गारस्त्रिविद्रवः ॥ ८४ ॥ द्विसन्धिरङ्कः प्रथमः कार्यो द्वादशनालिकः । चतुर्द्विनालिकावन्त्यौ नालिका घटिकाद्वयम् ॥ ८५ ॥ वस्तुस्वाभाxxxxxxx स्युः कपटास्त्रयः धर्मार्थकामैः शृङ्गारो नात्र बिन्दुप्रवेशकौ ॥ ८६ ॥ ब्राताघुज्ज्वलताशौचं धर्मशृङ्गार उच्यते । मुक्तारलाद्यलङ्कारै स्थैश्रृङ्गार उच्यते ॥ ८७ ॥ सम्भोगविप्रलम्भादि कामशृङ्गार इत्ययम् । पुरोपरोधयुद्धे च वाताभ्यादिकविद्रवाः ॥ ८८ ॥ वीथ्यङ्गानि यथालाभं कुर्यात्प्रहसने यथा । अथ वीथी वीथी तु कैशिकीवृत्त्या सन्ध्यङ्गाङ्कैश्च भाणवत् ॥ ८९ ॥ रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् । नायिकानायकौ कायौं शृङ्गारद्वयसंश्रयौ ॥ ९० ॥ युक्ता प्रस्तावनाख्यातैरङ्गैरुद्धायकादिभिः । उद्धात्यकाक्लगिते प्रपञ्चत्निगते छलम् ॥ ९१ ॥ वाक्केल्थधिबले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि त्नयोदश ॥ ९२ ॥ 1. शोद्धत्. 2. बहुवीररसाः सर्वे (D.R.). 3.चतुर्दिनलिका. 4. दैवादि. 5. युद्धेभ. 6. धिदितं.