पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११४ अलङ्कारसङ्ग्रहः

-टिथमलाक्षेतपाठ्यं पात्ने सङ्केतवर्णितं' यत्न । सैन्धवभाषा चतुरैर्विहित्तं वैदेशिकैर्नटैर्वीथ्याम् ॥ ६७ ॥ रसभावाः परिक्लिष्टाश्चतुरस्रः परिश्रमः । मुखप्रतिमुखे चित्रे तद्विगूढं मतं यथा ॥ ६८ ॥ अत एव कल्पनीयाः खल्वस्याश्च रसभावाः । रसभावाः परिक्लिष्टाः प्रौढो विद्यापरिश्रमः ॥ ६९ ॥ चित्रे मुखप्रतिमुखे सलयः पादयोः क्रमः । विचित्राः क्ष्लोकसन्दर्भा यत्न नानाविधो रसः ॥ ७० ॥ हेला भावाक्ष्च ललिताश्चोत्तमोत्तमकं यथा । केयं पटाक्षेपेण प्रविशति ? " अङ्करत्कुचमप्यनल्यविलसत्तत्सन्निवेशक्रमं वक्षोऽस्या वलिरेखिकाभिरुदरं वामभ्रुवोपास्यते । अङ्गं रङ्गद्दशामनङ्गनृपतेः कारागृहं श्रीयते भावैश्चित्नपदार्थभावितरसान् क्ष्लोकान् पठत्याननम् ॥ " पदानि साधिक्षेपाणि चित्रं गीतार्थयोजनम् । यत्न कोपप्रसादाभ्यामुक्तप्रत्युक्तकं यथा ॥ ७१ ॥ अपि च-तस्याः पक्ष्चान्निषण्णा काचित् कुपिता- " गायति गेयं साधिक्षेपपदं सहचरीमुखे स्खलिते । तस्यामियं प्रसन्ना चित्रं गीतार्थमभिनयत्यङ्गैः ॥ " अथ प्रहसनम् - अथ प्रहसनं त्नेधा शुद्धवैकृतसङ्करैः । पाषण्डिविप्रभृतिचेटचेटीविटाकुलम् ॥ ७२ ॥ 1. दव्चनं. 2. पटार्ध. 3. गीतं. 4.त्युज्चैः.