पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नक्मः परिच्छेदः ११३

निःशब्दाभिनयं निवेश्य वेिजने त्वं चेष्टसे नो यथा प्रालेयप्रकरेण पाडितपरिल्किष्टाम्बुजा पझिनी ॥ " नर्तक्याः पुरुषस्येव प्रगल्भे चेष्टितं यथा । नैकभेदं च सङ्गीतं स्याद्यथा पुष्पगन्धिका ॥ ६३ ॥ “ग्रीवाविभूषणविषस्तदुकूलकोण - संछन्नपीवरपयोधरभारनम्रा । मैरेयमतमहिलाकरदत्ताल मातन्वती समदनर्तनमाविरास्ते ॥ " सखि शारदिके ! पुंवत्प्रगल्भा विविधगानमुखरविलासिनीमध्यगता नेिस्रपं नृत्यसि । स हि प्रच्छेदको यत्र ज्योत्स्रासम्पातविल्कवाः । कामिन्यो थान्त्यपडाः सागसोऽपि प्रिया यथा ॥ ६४ ॥ "प्रचलितनिजलज्जाः प्राडमुखं वीक्षमाणा- स्तिमिरविगमभीतास्तीर्णमार्गाश्च तूर्णम् । वलयचलनलोला वञ्चितात्मीयलोकाः सततमभिसरेयुः सागसोऽप्यात्मनाथान् ॥ " पुंभावप्रचुरं नाट्यं समवृतपरिष्कृतम् । मृदुक्ष्लक्ष्णपदं यत्न तत्निगूटं स्मृतं यथा ॥ ६५ ॥ अस्याः खलु-- " अभिनयशस्तै हस्तौ पादौ परिभूतकिसलयौ सलयौ । अङ्गं रञ्जितरङ्गं नृतं पुंभावशालि समवृतम् ॥ " न नाटये लक्ष्यते पाठ्यं पात्रं सङ्केतवञ्चनम् । जायते सैन्धवी भाषा यत्र तत्सैन्धवं यथा ॥ ६६ ॥ 1. मदा. 2. निषस्त. 3. तूर्णमुद्गीर्णमार्गा:. 4. पि खानाथान्. 5. पात्ने .