पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११२ अलङ्कारसङ्ग्रहः

मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च । लास्याङ्गानि 'गेयपदं स्थितपाठ्यमासीनं पुष्यगन्धिका ॥ 'प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् । उत्तमोत्तमकं चैवमुक्तप्रत्यक्तमेव च ॥ ५९ ॥ लास्ये दशविधं झेतदङ्गनिर्देशकल्पनम् । सुखासीना श्रुतिसुखं यत्र गायन्ति गायकाः ॥ ६० ॥ तादिवाच्यमिश्रं तच्छुष्कं गेयपदं यथा । “सुखासुीनाः सन्तः सुरभिकुसुमामोदसुभगे 'तले सान्द्रच्छाये तरुणसहकारस्य शिशिरे । कलैर्वीणावाघै सममृदुलसन्दिग्धवचसो' 'रसावेशोल्लासान्मदनमिह गायन्ति मधुरम् ॥ " पठेद्यत्रासनासीना' प्रकृतं विरहातुरा । अङ्गनानङ्गतप्ताङ्गी स्थितपाठ्यं मतं यथा ॥ ६१ ॥ “रति ए हितहि अओ महुलमोतूण पथमिणिं । अण्णतो गच्छसि गच्छ सुणो सापेच्छादिअ अण्णम् ॥ " णिमिल अंबुल्हच्छि । शोकचिन्तापरवशं वाद्याभिनयवर्जितम् । आस्यते यत्र कामिन्या तदासीनं मतं यथा ॥ ६२ ॥ बाले मालतिके । " म्लानं ते वदनं मनोविगलितं मन्दो विलासक्रमः चिन्ताशोकशं चिरोज्झितसुवं चित्तं वपुर्धसरम् । 1. गेयं पदं स्थितं पाठयं . 2. गन्धिका. 3. प्रमेदक. 4. तते .5. क्काणै 6. क्चसा. 7. समावेशो. 8. मधुरमिह गाचान्ति मदनम् ।. 9.यत्तु समासीना. 10. मदो विकसितो .