पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः परिच्छेदः

पञ्चाकं च षड्ङ्क च सप्ताङ्कं च तथापरम् । अष्टाङ्कं च नवाङ्कं च दशाङ्क नाटकं विदुः ॥ ४८ ॥ मारीचवञ्चनं नाम पञ्चाङ्कं परिकीर्तितम् । xxxxxxxxx तु षडङ्कं नाटकं मतम् ॥ ४९ ॥ शाकुन्तलं तु सप्ताङ्कमष्टाङ्कं नलविक्रमम् । देवीपरिणयाख्यानं नवाङ्क परिकीर्तितम् ॥ ५० ॥ बालरामायणं नाम दशाङ्क नाटकं स्मृतम् । अथ प्रकरणम् --- अथ प्रकरणे वृत्तमुत्पाघं लोकसंश्रयम् ॥ ५१ ॥ अमात्यविप्रवणिजामेकं कुर्याञ्च नायकम् । धीरप्रशान्तं साषायं धर्मकामार्थतत्परम् ॥ ५२ ॥ नायिका तु द्विधा नेतुः कुलस्त्री गणिका तथा । कचिदेकैव कुलजा वेश्या कापि द्वयं क्कचित् ॥ ५३ ॥ आभिः प्रकरणं वेधा शद्धं स्यात्कुलजन्वितम् । सङ्कीर्ण वेश्यया युक्त्तं मिश्र तहुयसङ्गतम् ॥ ५४ ॥ शेषं नाटकवत् 'सन्धिप्रवेशकरसादिकम् । अथ भाणः- भाणस्तु धूर्तचरितं स्वानुभूतं परेण वा ॥ ५५ ॥ यत्नोपवर्णयेदेको निपुणः पण्डितो विटः । सम्बोधनोक्तिप्रत्युक्तीः कुर्यादाकाशभावितैः ॥ ५६ ॥ सूचयेद्वीरश्रृङ्गारौ शौर्यसौभाग्यसंस्तवैः । भूयसा भारतीवृतिरेकाङ्गं वस्तु कल्पितम् ॥ ५७ ॥ 1. नायिकां तद्विधां नेतुः कुर्यात् स्री गणिकां तथा .। 2. नलवीजयः. 3. सर्व.