पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ अलङ्कारसङ्ग्रह:

" लाक्षागृहानलविषान्नसभाप्रवेशै: प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डक्वधूपरिधानकेशा: स्वःस्था भवन्तु मयि जीवति धार्तराष्ट्रा ॥ " कालसाम्थात् प्रवेशो यः प्रवृत्तकमिदं यथा । "प्रौढपयोधरधारा प्रावृण्मलिनाम्बरा प्रबाष्पधरा । मानसगराजहंसा मानक्तीवाद्य भाति मदनार्ता ॥ " एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः ॥ २२ ॥ पात्रप्रवेशो यत्नैषः प्रयोगातिशयो यथा । " सौरभेण सहकारपादपः पद्मतो हरति षट्पदावलीम् । रामणीयकगुणेन' रागिणीं xxxxxxxxx कैरवः वर्णयितुमस्य महिमा वसन्तसमयस्य शक्यते केन । यदयं विप्रो वृद्धोऽप्युज्झति दामोदरो निजां प्रकृतिम् ॥" वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्तेऽत्रैव तानि तु ॥ २३ ॥ उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् । वाक्केल्यधिबले गण्डमक्स्यन्दितनालिके ॥ २४ ॥ असत्प्रलापव्याहारमृदवानि त्नयोदश । वीर्थाप्रसङ्गे वीथ्यङ्गलक्षणं तत्न वक्ष्यते ॥ २५ ॥ आदौ प्रसङ्गाद्वीथ्यङ्गलक्षणं तत्न कथ्यते । एषामन्यतमेनार्थ पात्नं वाक्षिप्य सूत्नभृत् ॥ २६ ॥ 1. भघन्ति 2. प्रयोगो. 3. पद्ममाहरतिः. 4. मनेन.