नक्मः परिच्छेदः १०७
उत्खाय गादतमसं घनकालमुग्रं
रामो दशास्यमिव 'संभृतबन्धुजीवः ॥ "
“ तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥ "
रङ्ग ' प्रसाद्य मधुरैः क्ष्लोकैः कव्यार्थसूचकैः ॥ १७ ॥
ऋतुं कंचिदुपादाय' भारतीं वृत्तिमाश्रयेत् ।
प्ररोचना प्रशंसातस्तून्मुखीकरणं यथा ॥ १८ ॥
“श्रीहर्षों निपुणः कविः परिषदप्येषा गुणग्रहिणी
लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् ।
वस्वैकैकमपीह वाञ्छितफलप्राप्ते पदं किं पुन-
र्मद्राग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ "
सूत्रधारो नटी बूते मार्ष वाऽथ विदूषकम् ।
स्वकार्यप्रस्तुताक्षेपि चित्रोक्या यत्तदामुखम् ॥ १९ ॥
प्रस्तावनति वा तत्र कथोद्धातः प्रवृत्तकम् ।
प्रयोगातिशयश्चाथ "वीथ्यङ्गानि त्नयोदश ॥ २० ॥
स्वेतिवृत्तसमं वाक्यमर्थ वा यत्र सूत्निणः ।
गृहीत्वा प्रविशेत्पात्रं कथाद्धाता द्विधा यथा ॥ २१ ॥
“द्वापदन्यस्मादपि मध्यादपि जलनिधेर्देिशोऽप्यन्तान् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूत: ॥
1. संहृत . 2. अनिष्ठरैश्च मधुरैः स्लोकैवाक्यार्थसूचकैः!
3. दुपास्थाय .
4. वस्तून्मुखी. 5. फलं . 6. मारिषं वा. 7. तस्य कथाद्भदः प्रवर्तकम्. 8. प्रयोणाति
शयथेति त्रीण्यङ्गान्गमम्खम्य तुः; प्रयोगानिशथश्चाथ वाप्यङ्गानि त्रयोदश ॥ 9. वाप्यंगानि.
10. तxxxx.