पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ अलङ्कारसङ्ग्रहः

तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये । आशीर्धचनसंयुक्ता यस्मान्नित्यं भवेदिह ॥ ११ ॥ देवद्विजनृपादीनां तस्मान्नान्दीति शब्दिता । नान्दा गुणानिका वाद्यमानन्दादित्रयोत्थितम् ॥ १२ ॥ नन्दीशः पूज्यते पुष्पै: तस्मान्नान्दीति सूच्यते । या काचित् पठ्यते सूक्तिर्या कांचिद्देवतां प्रति ॥ १३ ॥ सूत्रधारेण नाट्यादौ सा नान्दी नन्दिनो मुदे । 'मङ्गल्यशंखचक्राब्जकोककैरवशंसिनी ॥ १४ ॥ नान्दी पदैर्द्वादशभिरष्टभिर्वाप्यलङ्कृता । पूर्वरङ्गं विधायेत्थं सूत्रधारे विनिर्गते ॥ १५ ॥ प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः । दिव्यमत्यें स तद्रपो मिश्रमन्यतरस्तयोः ॥ १६ ॥ सूचयेद्वस्तु बीजं वा मुग्वं पात्रं क्रमाद्यथा । " रामो मूघ्नि निधाय काननमगान्मालामिवाज्ञां गुरो- स्तद्भक्तया भरतेन राज्यमखिलं मात्ना सहैवोज्झितम् । तौ सुग्रीवविभीषणाक्नुगतौ नीतौ' परां संपदं प्रोद्वत्ता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता द्विषः ॥ " " यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ " " आसाxxxxxxxxxxx प्राप्तः शरत्समय एष विशुद्धकान्तः । 1. त्रयोद्धतम्: त्रयोद्धतम् . 2. वन्दीशः 3. तेन. 4. मङ्गत्या. 5. शंसिनाम् 6. मत्यो : दिव्यमर्त्ये स तद्रपा मिश्रामन्य तभस्तयो . 7. बीजाघैर्मुखै पात्रं; बीजं का मुखं त्र; 8. प्राप्तौ . 9. आसारित. 10. विरुद्धकान्तिः; विरुद्धकान्तः; बिशुद्धकान्तिः,