पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ अलङ्कारसङ्ग्रहः


सखी इलेति च प्रेष्या हज्जे वेश्यांञ्जुकैति च । कुहकत्तेत्यनुगतैः पूज्याम्या जरती जनैः ॥ ३० ॥ विदूषकेण मक्ती राज्ञी चेतिं च शब्द्यते । हण्डे नीचापुरस्कारो लालिनातु यवीयसी ॥ ३१ ॥ भगिनीपतिरांवुत्तो राजा भट्टारको जनैः । युवराजः कुमारः स्याद्भर्तुदारक इत्यपि ॥ ३२ ॥ राजपुत्री तु तद्वत्वादार्यषुत्रः पतिः स्त्रिया । प्रियेति भर्त्रा राज्ञी स्याच्छयालो राष्ट्रिय उच्यते ॥ ३३ ॥ देवी कृताभिषेकायामितरासु तु भट्टिनी । अतिका भगिनी ज्येष्ठा बाला वासूरितीर्यते ॥ ३४ ॥ सद्वृतशालि सरसं नाटयं नियनभाषितम् । त्वञ्चरित्रमिवाभाति महितं मन्मभूपते ॥ ३५ ॥ इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्गहे वृत्तिनिरूपणं नाम अष्टम: परिच्छेदः 1. वेश्याज्जुकेति च. 2. राक्षिचेति ; राजी चेति.