पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९६ अलङ्कारसङ्ग्रहः

अञ्जनविमबाप्पलवा मे क्षालयन्ति चिरखेदममुष्याः ॥" स्थिरीकरणमर्थस्य लब्धस्य तु कृतिर्यथा। पुरोधाः--(ततः सप्तपदान्याक्रामय्य) " कलितानि पदानि सप्त साक्षि- ण्यनले वामुभयोरतोऽस्तु सख्यम् । शिवयोरिव शाश्वतैकरस्यं चरतो यावदशीतशीतभानू ॥” मानार्थकामलाभो हेि भाषणं कथितं यथा ॥ ६५ ॥ केरव:- " तदात्मजा तामरसायताक्षी महं न सम्मानमियं' करोति । दत्ता दया वारिधिना त्वया त- द्ररूपदेशाद्रुरुमत्त्वमुक्तम् ॥" उपगुम्भनमाश्चर्यप्राप्तिरित्युच्यते यथा । पुरोधाः---(साश्चर्यम्) मनोरथसिद्धं मयाप्येतदेव विवक्षितम्। अहो दैवादावयो र्मति संवादः । कार्यस्य दर्शनं पूर्वभावःसङ्गीर्त्यते यथा ॥ ६६ ॥ मनोरथसिद्धिः, अन्यञ्च माशास्यमस्ति । तदिदं मालवनाथः सम्भावनीयः । यथा प्रीयते देवी । " सर्वः स्वजनसमानात्सन्तोमुपयाति हि । यतो वकुलसेकेन विकसेन्मुकुलावली ॥ " स स्यात्कार्यस्य संहारः प्रिय': प्रियतरो यथा । 1 स्थिती. 2. धृति. 3.xx . 4. मिमं. 5. महीशः 6. दुरु यस्सदुक्तम्. 7. प्रियाकxxxxतो.