पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः परिच्छेदः ९५

सौरभः– क्यस्य ! मैवं मन्तव्यम् । " स देवतावेश्मनि सत्यसङ्गरः सतां समक्षं समुदीरितं तथा । वचः स्वकीयं वसुघेश्वरः कथं मुहूर्तमात्नेण मृषा करिष्यति ॥" अन्योन्यपरिवादोऽयं परिभाषात्न सा यथा । मकरदंष्ट्रा- (सरोषं) अरे दुब्बमण! पुहविक्दीणां वि पुरदो एव्वं पुणो वि भणसि। सौरभ:- “ धूर्ते दुन्तविपदर्णक्मध्यमौ दीनाववेक्ष्य कृपया दिननाथवंश्यः । आवामपारमनयन्नयनात्तदीयात् जातौ जहाति न कदापि सुतौ नरेन्द्रः ॥” अतस्ते तर्जनान्नाभिभवः । प्रसीदेत्याद्यनुनयः प्रसादोऽभिमतो यथा ॥ ६३ ॥ "मदसारः- (किंचिद्विहस्य) भो ! क्षमस्व मापराधं । वाञ्छितार्थस्य या प्राप्तिरानन्दः स मतो यथा । (राज्ञः करेण रमण्याः करं ग्राहयति) (स राजा सहर्ष गृहाति) चिरारूढस्य दुःखस्य निर्गमः समयो यथा ॥ ६४ ॥ राजा- (तरुणीं कथमपि कटाक्षेण निर्वर्ण्य) (अपवार्य) क्यस्य ! "सभिxxxxxxxx - द्भङ्गसन्ततिसमाननिकायाः । 1. कचिषः. 2. झन्तौ. 3. मतसारः. 4. न्मत्तक्ट्पद.