पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९४ अलङ्कारसङ्ग्रहः

एकार्यमुपनीयन्ते यत्र निर्वहणं हि तत् । सन्धिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ॥ ५९ ॥ प्रसादानन्दसमयाः कृतिर्भाषोपगुग्भने। पूर्वभागोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ६० ॥ मुखसूचितबीजार्थप्राप्तिः सन्धिर्मतो यथा । करवः---- " आदावघटितं कार्य मध्ये सुघटितं मम । भूयो विघटितं भूयो भूयाद्धटयितुं प्रभुः ॥ " मार्गणं तस्य कार्यस्य विरोधः कथ्यते यथा ॥ ६१ ॥ सौरम :- " सा त्क्यैवमवमानिता सती कुट्टिनी कुपितपन्नगीनिभा । मारयेत्किमु भहीशतर्जिता मानयेत्किमुत मन्दविग्रहा ॥ " ग्रथनं तस्य कार्यस्य तूपक्षेपो मतो यथा । कैरवः– क्यस्य ! नात्न सन्देहः । " शान्तिमेति सकलोऽपि भूभुजां सन्निधौ सहजवैरितर्जितः । तामसा अपि तरक्षवो मृगैः सञ्चरन्ति हि समं तपोक्ने ॥ " अनुभूतार्थकथनं निर्णयोऽभिहितो यथा ॥ ६२ ॥ 1.दर्क्षिप्ता.