पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः परिच्छेदः

आसीदेतत्तव कुरुपतेः कारणं जीवितय क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥ " राजा– दुरात्मन् ! भरतकुलापशद ! पाण्डवपशो ! नाहं भवानिव विकत्थना प्रगल्भः । किंतु । " द्रक्ष्यन्ति न चिरात्सुतं बान्धवास्त्वां रणाङ्गणे । मद्वदभिन्नवक्षोऽस्थिवेणिकाभीमभूषणम् ॥ " प्ररोचना तिद्धपथxxxxxx यथा ॥ ५६ ॥ वन्दी-देव ! " आस्ते द्वाविव धृर्विधातृरचनावैदुष्यविक्रान्तिभू- र्भूरेतस्य बलादहारि भवता मीता नतारातिना । किं नामापरमत्र कार्यमधुना साध्यं समाशास्यते तत्पादग्रहमङ्गलाय मनुजाधीशास्तु यलो महान् ॥ " विकत्थनाद्विचलनमामनन्ति बुधा यथा। कैरव:- "ननु तव नयहीने नापराधं स्मरेयं मनसि विसृज भीतिं मत्क्रुधो नासि पात्रम् । भुवनमविलमेको भुग्नयैव भ्रुवाहं नियमयितुमधीशो नीरजाक्षप्रभावात् ॥ ” काथस्य सङ्ग्रहो यः स्यात्तदाधानं मतं यथा ॥ ५७ ॥ कैरवः–(स्वागतम्) अस्तु नामैतां कुट्टिनीं देवकुलाग्रस्थापितदीपस्थम्भोपरि निधाय गमिष्यामि । व्यक्सायाधानशक्तिलयमावश्यकं त्विह । xxx मुखाद्यर्था विप्रकीर्णा यथायथम् ॥ ५८ ॥