पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसग्रहः

यत्नाक्माननं वाक्ये छलनं तन्मतं यथा । क्न्दी-देव ! " कोऽयं ते प्रतिकर्तुमत्र' भवतक्ष्चेलान्तबद्धाक्षतो भूयः स्वति वदन्नटत्वनुगृहं दूर्वार्पणार्ताङ्गुळिः । किं कर्णाटमहीपतिः किमु महाराष्ट्रः विमङ्गाधिपः किं पाण्डयः किमु घूर्जरः किममुना सर्वेऽपि ते सेवकाः ॥ " स्वसामर्थ्यस्य कथनं व्यवसायो मतो यथा ॥ ५५ ॥ कैरव:- " जडं जलनिधेर्वारि मुत्त्का मुनिनिराकृतम् । मम स्वान्ते मधुध्वंसी नित्यं शेते निरामये ॥ " अतोऽखिलजगत्सु लब्ध एवातुलप्रभावः । विरोधनं स्वशक्तयुक्तिः संरब्धानां मतं यथा । अर्जुनः-- आर्य! प्रसीद । किमत्नक्रोधेन । " अप्रियाणि करोत्येष वाचाशक्तो न कर्मणा । हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ " मीम– अये, भरतकुलेन्दुकलङ्क ! " अधैव किं न विशसेयमहं भवन्तं दुःशासनानुगमनाय कटुप्रलापिन् । विघ्रं गुरुर्न कुरुते यदि मद्रदाग्र- निर्भिद्यमानरणितास्थनि ते शरीरे ॥ ' अन्यचरे मूढ ! "शोकैः स्त्रीवन्नयनसलिलैर्यत्परित्याजितोऽसि भ्रातुर्वक्षः स्थलविधटने यञ्च साक्षीकृतोऽसि । 1. कर्तुरत्र.