पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः परिच्छेदः

कैरवः--- " बद्धः पश्चाद्धलिभिरवनीपालभृत्यैर्नियोगा- घस्या:क्रूरैर्यमपरिसरं प्रापणीयोऽपथानम् । सा त्वं दोषं मयि वितनुषी' साम्प्रतं सांप्रतं ते सर्पिः क्षीरं विवमिव खले साधयेत्साधुतैनः ॥ " द्रवो गुरुतिरस्कारकथनं कथ्यते यथा । लव:- "वृद्धास्ते न विचारणीयचरितस्तिष्टन्तु हुं वर्धतां सुन्दस्रीदमनेऽप्यरुण्ड्यासो लोके महान्तो हि ते । यानि त्नीणि कुतोमुखान्यपि पदान्यासन् 'खरायोधने किं वा' ककमिन्द्रसूनुनिधने' तत्राप्यभिज्ञो जनः ॥ " शक्तिः सङ्गीर्यते सा यद्विरोधशमनं यथा ॥ ५३ ॥ राजा- वयस्य । " विसृज मनसि रोषं मा विरुद्धं वचो मे तव भक्तु निजानामेव कोपप्रसादौ । खरतरविरश्मित्रातपातेऽपि सद्यः सरसिजनिकुरुम्बं "स्वैरमुन्मेषमेति ॥" तर्जनोद्वेजने यत्न सा घुतिः कीर्त्यते यथा । " या त्वं दूति यमस्येव तदा वर्जितवत्यसि । सैव सम्प्रति सोद्वेगा चपले चाटु भाषसे ॥ " कीर्तनं गुरुनाम्नो यत्प्रसङ्गः कथ्यते यथा ॥ ५४ ॥ मकरदंष्ट्वा- जादो जलधि घीरादो कासारादो कहे तु सुं हिं हिमावहे देहो अए- की वा कीसना विज्जं इ ॥ 1. रोषम्. 2. वितनुषे. 3. वन्द्या. 4. वर्धते. 5.क्तायोधने, 6. यद्रा. 7. हनने. 8. मनः 9. स्मरे.