पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः

“ प्रसाद तव सम्प्राप्य साधनीयं समीहितम् । विभावरी विना सेव्या चकोरेणेव चन्द्रिका ॥" अभूताहरणं मार्गस्तोटकाधिबले अपि । आक्षेपश्चात्र नियमाद्वाच्यान्यन्यान्यपीच्छया ॥ ४८ ॥ क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात् । गर्भनिर्भिन्नबीजार्थः सोवमर्शो विमर्शनात् ॥ ४९ ।। तत्रापवादसम्फेटौ विद्रवद्रवशक्तयः । घुतिः प्रसङ्गश्छलनं व्यक्सायो निरोधनम् ॥ ५० ॥ प्ररोचना वेिचलनमाधानं च त्नयोदश । दोषप्रख्यापनं यत्स्यादपवादो मतो यथा ॥ ५१ ॥ कैरव:- " पापे पुरा पातयितुं प्रवृत्ता सन्तानकं xxxxxxx तर्हि । यागैरनेकैर्यमिभिर्वरेण्यो लोकः कथं लोचवनगोचरस्ते ॥" रोषेण भाषणं यत्स्यात्सम्फेटोऽभिमतो यथा । मकरदंष्ट्रा - “क्ता सुधा वारविलासिणी ए माआभअंगेण मारिदस्ति । का केदई कामितxxxxxx कता पुरा कण्टयिणी विशेण ॥ " कैरवः-धूर्त ! नाद्यापि रोषं मुञ्चसि । वधबन्धादिकथनं वेिद्रवः कथ्यते यथा ॥ ५२ ॥