पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः परिच्छेदः ८५

राजा–(निर्वर्ण्य सानन्दं) वयस्य ! समाकर्णय ।

" दूराद्दर्शनवाञ्छा सविधगतायां समागमोत्कण्ठा । अप्राप्तायामधुना कथमिव मनसो रतिस्तस्याम् ॥ " तस्यास्तु शान्तिरतेः शम इत्युच्यते यथा ॥ ३३ ॥ राजा–(निर्वर्ण्य सानन्दं) वयस्य मम हि ---- " दृढविरहविदाहमेष दृष्टो हरति च रोदयितां सखीसमेतः । शशधर इव चन्द्रिकासनाथो निशि जगतो नितरां निदाघतापम् ॥ " परिहासकरं वाक्यं कथ्यते नर्म तद्यथा । विदूषकः- वअस्स! य एव्व रमणिज्जा वटिव्दा तुह पिआ होदु । राजा- (विहस्य) वयस्य ! अधमवृत्तिमवलम्बसे ।

1. विधाहमेव ; क्दिाहमेव. 6. नासीदे, घुतिर्नर्मसमुदूता नर्मघुतिसौ यथा ॥ ३४ ॥ “कः खलु धीरोदारो' गभीरसलिलां पिपासुरपि गङ्गाम् । दूरादपि नासेदे दारादपि सारणीं समुल्लङ्बय ॥ " उत्तरादुत्तरं वाक्यं प्रगमः कथ्यते यथा । " वत्से वारं वारं वचनानि मयाद्या वर्णितानि तव । विगळन्ति कर्णविराद्भग्नाद्भाण्डादिवाशु सलिलानि ॥ " 1.विधाहभेव ; विदाहभेव; 2. कृतं. सभं. 3. धृति. 4. धीरोदारां. 5. गन्ता.