पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ अलङ्कारसङ्ग्रहः


राजा-शुद्धपार्ष्णिना हि जेतव्या रिपवः अतो गौडेशमुन्मील्य माळवेशमभियास्यामः । वन्दी- देव “ भकृते तु घनावरोधमेदे सति सायन्तनमारुतेन तेन । अवलोकयितुं सुखेन शक्या शशिरेखा 'शमिताखिलभितापा ॥ " उपक्षेपः परिकरः xxxथैव च ॥ २८ ॥ युक्तयुद्वेदौ समाधानं मुखे वाच्यान्यवश्यतः । लक्ष्यालक्ष्य इवोद्वेदः तस्य प्रतिमुखं भवेत् ॥ २९ ॥ बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश । विलासः परिसर्पश्च विधूतं शमनर्मणी ॥ ३० ॥ नर्मघुतिः प्रगमनं निरोधः पर्युपासनम् । पुष्पं वज्नमुपन्यासो वर्णसंहार इत्यपि ॥ ३१ ॥ रत्युद्देशेन या काङ्क्षा विलासः स मतो यथा । राजा-- (विहस्य) वयस्य ! " विदितरसो विभवयुतो युवा-यदि स्यात्सचेतनः सदृशीम् । कः खलु कामयमानां कान्तामप्राप्य कातरो न भवेत् ॥ " दृष्टनष्टनुसर्पः स्यात्परिसर्यो मतो यथा ॥ ३२ ॥ राजा---(ससंभ्रमम्) वयस्य ! त्वद्वचनचातुरीविस्मृतविषयान्तरो गम्यमानमपि पन्थानं न गणयामि । कासौ नगरी ? (इत्युपसर्पति) अतिर्मनसो या स्याद्विधूतं कथ्यते यथा । 1. शान्तिामिस्रमवितापा. 2. विरोधः.