पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः परिच्छेदः

राजा---(अपावर्य) क्यस्स ! वयं निलीना एव निवसामः । “ अरागमङ्गनाया मुखेन यः श्रोत्नपेयमाधुर्यम् । आकर्णयत्यजस्त्रं स एव मदनस्य शाप्तस्ति साम्राज्यम् ॥ " सुखदुःस्वकरं यत्स्याद्विधानं तद्विदुर्यथा । कैरवः-पुरस्तादवलोकय तस्याताम्बूलकरङ्गकहिनीम् । " आज्ञेव शम्बररिपोरक्लङ्घनीया वाञ्छेव विग्रहवती वशंगा दृशोर्मे । अन्यार्थमेव किमुतापणमभ्युपैति सन्देशमानयति सा किमु सारसाक्ष्याः ॥ " अतो मे मनसि मोदखेदौ वर्तेते । अभ्दुतापादनं यत्यात्परिभावो मतो यथा ॥ २६ ॥ कैरवः-वयस्य ! पश्य, " रङ्गोत्थिता रतिपतेरेिह राज्यलक्ष्मी- र्नारीललामनयनोत्करपूर्वपुण्यम् । आलिङ्गितुं मलयमारुतमञ्जसा सा वाब्छत्यही सुभगताऽस्य तु वागतीता ॥ " गूढार्थभेदनं यत्स्यादुद्वेदः प्रोच्यते यथा । विदूषक-वअस्स! विसुमरिदं तु ए । जेता एवा हिं पि सरिसं एव्व पेच्छामित्ति भणिदम् । राजा–सखे ! तदिदानीं संस्मृतम् । प्रारब्धकार्यसिध्यर्थं भेदः प्रोत्साहना यथा ॥ २७ ॥ सौरभः---'कलिके ! त्वमग्रतो गच्छ. । मार्ग दर्शय । उद्दिष्टार्थस्य सिध्द्यर्थे प्रारम्भः करणं यथा । सप्तमः परिच्छेद 1. संस्कृतम्. 2. कौशिक.