पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ अलङ्कारसङ्ग्रहः

कैरवः-वयस्य ! यदि मामुद्दिश्य प्रेषयति तर्हि-- " मदनस्यं मया राज्यं प्राज्यं बलक्ता हृतम् । पुण्यैः पुरातनैरद्य प्रायेण फलितं मम ॥” विलोभनं गुणाख्यानं मानसोल्लासकृयथा । कैरवः--वयस्य! कोपे तु नैवम् । यतः--- " बालातपक्रान्तपथोजपत्र- मित्रे तु नेत्रे मिषतो न मीमे । भुझे ध्रुवौ न श्रुकुटितयोस्तु ॥" सम्प्रधारणमर्थानां युक्तिरित्युच्यते यथा ॥ २४ ॥ वन्दी-देव सत्यमेतत् । " नृत्ताचार्यो मम सुहृदभूदत्र कन्दर्पदासः तेनावश्यं पितुरभिनवं "नृत्तमादर्शयन्ती । बद्धा पत्रं सलिपेि नगरद्वारि तेनानुशिष्ट- स्तुष्टेनाहं दुहितृभवने चित्रकृत्येऽलिखं त्वाम् ॥" या चित्तस्य सुखप्राप्तिः सा प्राप्तिर्गीयते यथा । राजा-(स्क्गतम्)) " आलोच्य वाक्यं स्क्यमन्तरात्मा हृष्टः परानन्दमिव प्रविष्टः । प्रायेण भावीनि भवन्ति वस्तृ- न्यालोच्यमानानि मनोहरणि ॥ " बीजागमः समाधानमिति सङ्कीर्त्यते यथा ॥ २५ ॥ 1. गुणाख्यानान्मनसो. 2. सम्प्रसारण. 3. नृत्य. 4. समादान.