पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
69
शब्दप्रमाणसरः (११५)

यदि अल्पप्रज्ञैर्दुर्विज्ञानश्चेत् साधु सम्यक् तत्समाख्यैव उमापतिसमाख्यैव विमृश्यतां विमर्शे अयमर्थस्स्फुटीभविष्यत्यल्पज्ञानामपीति भावः । समाख्यापक्षे तु उमापतिः उमापतिशब्दः अन्तः आद्यन्ताक्षरयोर्मध्ये मापं माश्च पश्च अनयोस्समाहारः मापं एवंरूपं वर्णसमुदयं बिभर्ति । अतएव अयं उमापतिशब्दः तदधीनसत्तः मापवर्णायत्तस्वस्थितिः उक्तमापवर्णाभावे उमापतिशब्दसत्ताया दुर्घटत्वादिति भावः । अत्र स्वविवक्षिते उमापतेर्भगवदन्तरात्मकत्वे उमापतिसमाख्यायाः प्रमाणीकरणम् ॥

 यथावा--

 सति भवति सर्वभोग्ये कामुक इतरामिषस्य यो भगवन् । अमुकस्स काक एव स्यादेतद्वक्ति तत्समाख्यैव ॥ २१०७ ॥

 हे भगवन्! सर्वभोग्ये सर्वैस्सर्वप्रकारेण भोग्ये भवति सत्यपि यः इतरामिषस्य भोग्यवस्त्वन्तरस्य 'आमिषं पुंनपुंसकम् । भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपिच' इति मेदिनी । अन्यमांसस्येत्यप्युपस्कार्यम् । कामुकः कामयिता । ‘न लोक’ इत्यादिकृद्योगलक्षणषष्ठीनिषेधस्य ‘कमेरनिषेधः' इति पर्युदस्तत्वात् कामुकशब्दयोगे इतरामिषशब्दस्य षष्ठ्येव । सः अमुकः सोऽसौ कामुकः । अदश्शब्दसमानार्थकोऽयमव्युत्पन्नोऽमुकशब्दः । 'अमुकगोत्रस्यामुकशर्मणः । ज्ञातस्स्वरेणामुकः’ इत्यादिप्रयोगदर्शनात् । न तु साकच्कोऽदश्शब्दः । तथा सत्यसुक इति स्यात् । काक एव वायस एव स्यात् । आमिषगृध्नुत्वात्तत्तुल्य एवेति भावः । पक्षे कामुकशब्दो मुकारविघटितः काक एव काकशब्द एव स्यात् । अत्र स्वविवक्षितार्थनिर्धारणाय