पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
70
अलंकारमणिहारे

च्यावित्तैकवर्णकामुकसमाख्यायाः प्रमाणतयोपन्यास इत्यच्यावितवर्णसमाख्योदाहरणेभ्यः पूर्वेभ्यो विच्छित्तिविशेषशालीदम् ॥

 यथावा--

 प्रतिकूलभावभाक्त्वे नूनं हंसीति भासि सिंहत्वम् । ईदृक्सिंहेत्येतत्पदमेव हि मानमत्र पर्याप्तम् ॥ २१०८ ॥

 हे सिंह हे नृसिंह! त्वं प्रतिकूलभावभाक्त्वे त्वद्विषये प्रातिकूल्यकृत्त्वे नूनं हंसीति भासि प्रातिकूल्यभाजं जनं संहरसीति मम प्रतिभासीत्यर्थः । पक्षे हे सिंहेति सिंहशब्दस्यैव संबोधनम् । प्रतिकूलभावभाक्त्वे प्रातिलोम्यप्राप्तौ हंसीति भासि हंसीत्यानुपूर्व्या प्रकाशसे इत्यर्थः । अत्र उक्तार्थे ईदृक् प्रातिलोम्यभाक्त्वे हंसीति निष्पद्यमानं सिंहेत्येतत्पदमेव मानं प्रमाणं पर्याप्तम् । किमन्यप्रमाणान्वेषणेनेति भावः । अत्र उक्तार्थे उक्तरूपं सिंहेति संबुद्ध्यन्तसमाख्यापदं प्रमाणतयोपन्यस्तमिति पूर्वस्माद्विच्छित्तिविशेषशालीदम् ॥

इत्यलङ्कारमणिहारे शब्दप्रमाणसरः पञ्चदशोत्तरशततमः.


अथार्थापत्तिसरः (११६)


अन्यथाऽनुपपत्त्या यत्किंचिदर्थस्य कल्प्यते ।
अर्थान्तरं तां कथयन्त्यर्थापत्तिं विचक्षणाः ॥

 किंचिदर्थान्यधानुपपत्त्या अर्थान्तरकल्पनमर्थापत्तिर्नामालंकारः ॥