पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
68
अलंकारमणिहारे

राद्धः स्वः स्वर्गे राद्धः संसिद्ध इति वा । सर्वैश्वर्यपरिपूर्ण इत्यर्थः ‘रो रि’ इति रेफलोपे ‘ढ्रलोपे’ इति पूर्वस्याणो दीर्घः । शब्दपक्षे तु--आदौ सु इति वर्णं आराद्धं येन सः स्वाराद्धः । मध्ये दुर्वासश्शापलक्ष्मीकटाक्षलाभयोरन्तराळसमये त्रासितः वैरोचनिप्रभृतिभिः पदभ्रंशनादिना भीषितोऽपि । अन्यत्र मध्ये सु मा इति वर्णद्वयान्तरे त्रासितः त्रा इति वर्णसमुदयः आसितः उपवेशितः यस्य स तथोक्तः । च इति वर्णसमूहेन सितः बद्धः संबद्ध इति वा । अपिरत्र समुच्चये । त्रासितश्चेत्यर्थः । अन्ते पर्यवसाने मानुगृहीतः लक्ष्मीकटाक्षविषयीकृत इत्यर्थः । अन्यत्र अन्ते चरमभागे मानुगृहीतः मा इति वर्णेन घटित इति यावत् । अभूत् । तमिममर्थं अस्य सुत्राम्णः समाख्यैव आह सुत्रामेति समाख्ययैव वेदितेऽस्मिन्नर्थे पौराणिकोक्तिपर्यन्तानुधावनं नापेक्षितमिति भावः । अत्र उपपादिते स्वाभिमतेऽर्थे समाख्यायाः प्रमाणता ॥

 यथावा--

 मापमुमापतिरन्तर्बिभर्ति तदधीनसत्त एवायम् । यदि दुर्ग्रहोऽयमर्थो विमृश्यतां साधु तत्समाख्यैव ॥ २१०६ ॥

 उमापतिः शिवः मापं श्रीनाथं अन्तर्बिभर्ति अन्तरात्मतया दधाति ।

ममान्तरात्मा तव च येचान्ये देहिसंज्ञिताः ।
विष्णुरात्मा भगवतो भवस्यामिततेजसः ॥

 इत्यादिप्रमाणादिति भावः । अत एव अयं उमापतिः तदधीनसत्त एव तदायत्तस्वरूपस्थितिप्रवृत्तिभेद इत्यर्थः । अयमर्थः अन्तर्यामिब्राह्मणार्थाविसंवादिप्रदर्शितप्रमाणसंप्रतिपन्नोऽर्थः दुर्ग्रहो